भूते इत्येव। छन्दसि विषये धातोः लिट् प्रत्ययो भवति। अहं सूर्यमुभयतो ददर्श। अहं ध्यावापृथिवी आततान। ननु च छ्न्दसि लुड्लङ्लिटः
३।४।६ इति सामान्येन लिट् विहित एव? धातुसम्बन्धे स विधिः, अयं त्वविषेषेण।
"ददर्श" इति। दर्शर्लिट, णल्, द्विर्वचनम्(), "उरत्"
७।४।६६ इत्यत्त्म्, रपरत्वम्, हलादिशेषः
७।४।६०, लघूपधगुणः
७।३।८६। "आततान" इति। "तनु विस्तारे" (धा।पा।१४६३) आङपूर्वः, "अत उपधायाः"
७।२।११६ इति वृद्धिः। "धातुसम्बन्धे स विधिः" इति। "धातुसम्बन्धे प्रत्ययाः"
३।४।१ इत्यतो धातुसम्बन्धग्रहणानुवृत्तेः। "अयं त्वविशेषणेण" इति। भूतमात्रे। लिट इकारटकारावुत्तरसूत्रे विशेषणार्थौ। "लः कानज्वा" इत्युच्यमाने लकाराणां ग्रहणं स्यात्। टकारष्टेरेत्वार्थः॥
छन्दसि लिडिति सूत्रस्यार्थमाह--भूतसामान्ये इति। न च "छन्दसि लुङ्लङ्लिटः" इत्यनेन गतार्थता शङक्या, धातुसंबन्धाधिकारे हि स विधिः, इदं तु धातुसंबन्धं विनापि भवतीति विशेषात्। अत्र व्याचख्युः--कानचः कित्करणं तिस्तिराण इत्यत्र "ऋच्छत्यृ()ता"मिति गुणस्य निषेधार्थं सति प्रतिषेधविषये आरभ्यते। "चक्राण" इत्यत्र तु "असंयोगाल्लिट्व"दित्येव सिद्धं कित्त्वमिति।
त्रिमुनिमतमिति। सूत्रकृता छन्दसीति प्रक्रान्तत्वादुत्तरसूत्रे भाषाग्रहणाच्च, भाष्यवार्तिकयोरपि क्वसुकानचोः "छन्दस्युभयथे"ति वचनात्सार्वधातुकत्वेन "सार्वधातुकमपि" दिति ङित्त्वादेव आजिवानित्यादौ नलोपादीनां कित्कार्याणामन्यथासिद्धिमाशङ्क्य तितीर्वान् तिस्तिराण इत्यादौ "ऋच्छत्यृ()ता"मिति प्राप्तस्य गुणस्य बाधानार्थं कित्करणमिति सिद्धान्तितत्वात्। अत एव कित्करणसामथ्र्याद्भाषायामपि क्वसुकानचौ स्त इति केषांचिदुत्प्रेक्षा नादर्तव्येति हरदत्तमाधवादिग्रन्थे स्पष्टमिति भावः। कवयरित्वति। गतानुगतिकतयेति भावः।